Untitled Document
Untitled Document

महर्षि वेदव्यास गुरुकुल विद्यापीठ

प्रबुद्धसन्तपरमपूज्यश्रीसुधांशुमहाराजभिः भारतस्य राजधान्यां प्रदूषण मुक्त-प्राकृतिक एवं स्वच्छ-शुद्ध पर्यावरणे संचालिते आनंदधाम आश्रमे महर्षि वेदव्यास गुरुकुलविद्यापीठम्।

भारतस्य संस्कृते: निधि: तथाच आधुनिक शिक्षा प्रणाल्याः अनुपमं केन्द्रम्-

भारतीयसंस्कृते: इतिहासे गुरुकुल शिक्षा प्रणाली अति प्राचीनास्ति। प्रभु: श्रीराम श्रीकृष्णाद्यारभ्य समस्ताः गुरवः ज्ञानिन: ध्यानिन: सिद्धा: साधकगणाः ये समाजं सुदिशा प्रदानाय कार्याणि कुर्वन्त: सन्ति अधिकांशतया ते गुरुकुलस्यैव निधय: सन्ति। 1999 तमे वर्षे प्राचीन विद्यायाः शिक्षायाः केन्द्रस्य रूपे आनन्दधाम आश्रमे देहल्यां पूज्यश्रीः गुरुकुलस्य शिक्षा प्राणालीं ध्यात्वा महर्षि वेदव्यास विद्यापीठस्य स्थापनं कृतम्, यस्मिन् प्रशिक्षणं प्राप्य नवयुवकाः धर्माचार्यो भूत्वा धर्म-संस्कृते: प्रचारं-प्रसारं कुर्वन्त: सन्ति। इदम् गुरुकुलं 2007 तमे वर्षे बाल गुरुकुलस्य रूपे परिवर्तितं। अधुना, गुरुकुल परिसरे ते एव बालकाः शिक्षां प्राप्नुवन्ति येषां माता-पिता स्वबालान् संस्कृतभाषा-धर्म तथाच नैतिक शिक्षां प्रदातुं इच्छन्ति। परमपूज्या: सदगुरुवर्या:। अत्र भारतीय संस्कृते: सभ्यतायाश्च शिक्षया सह संगणक-पत्रकारिता-क्रीडा-जूडो-कर्राटे-योगादीनां प्रशिक्षणं प्रदाय तेषां सर्वांगीणं विकासं कुर्वन्ति।

आगच्छन्तु, भवतः नयाम: आध्यात्मिक ज्ञानस्य तस्मिन् केन्द्रे यत्रतः भारतीय संस्कृतेः सद्ज्ञानस्य च सुवासितं सर्वदागच्छति, यत्र भारतीय वाङ्मयस्य धारा 1999 ईसवीय वर्षस्य अक्तूबर मासात् अजस्ररूपेण प्रवहति। प्रबुद्धसन्तपरमपूज्यश्रीसुधांशुमहाभागैः भारतस्य राजधान्यां देहल्यां प्रदूषणमुक्त प्राकृतिक एवंच स्वच्छ शुद्ध पर्यावरणे संचालिते महर्षि वेदव्यास गुरुकुल विद्यापीठस्य प्राङ्गणे, यत्र देशस्य सांस्कृतिक क्षेत्रे एकामौनक्रान्तिः घटिता भवति, यत्र पूज्यपादानां सान्निध्ये विपन्नानां तथाच निर्धनपरिवाराणां बालान् उच्च स्तरीयाः निःशुल्क शिक्षया सह सुखदआवासं-पुस्तकं-पौष्टिक भोजनादीनां सुव्यवस्थाः प्रददति।

2 अक्तूबर, 2007 तमे ईषवीयवर्षे अस्य गुरुकुलस्य स्वरूपं परिवर्त्य शत छात्रै: बालगुरुकुलस्य शुभारम्भं अभवत्। अस्मिन् गुरुकुले षट् कक्षातः द्वादश कक्षा पर्यंतं एवं प्रकारेणे शिक्षणं भवति यस्मिन् चीनार्वाचीन शिक्षाणां समावेशोस्ति। गोस्वामी गिरिधारीलाल प्राच्य विद्यापीठं एवं सम्पूर्णानन्द संस्कृत विश्वविद्यालय: वाराणसीतः सैद्धान्तिक परीक्षया सहैव जूडो-कर्राटे-मल्लयुद्धं-यज्ञ-योग-क्रीडा एवंच संगीत संगणकस्य च शिक्षापि विधिवत् प्रदीयते।